Kanduka Stuti

दधिवामनस्तोत्रम् 

हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभं  ।

पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ।।1।।

पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगं ।

ज्वलत्कालानलप्रख्यं तटित्कोटिसमप्रभं ।।2।।

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलं ।

चन्द्रमण्डलमध्यस्तं विष्णुमव्ययमच्युतम् ।।3।।

श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ।

पीताम्बरमुदाराङ्गं वनमालाविभूषितम् ।।4।।

सुन्दरं पुण्डरीकाक्षं किरीचेन विराजितम् ।

षोडशस्त्रीपरिवृतमप्सरोगणसेवितम् ।।5।।

ऋग्यजुस्सामाथर्वाद्यैर्गीयमानं जनार्दनम् ।

चतुर्मुखाद्यैर्देवेशैः स्तोत्राराधनतत्परैः ।।6।।

सनकाद्यैर्मुनिगणैस्तूयमानमहर्निशम् ।

त्रयम्बको महादेवो नृत्यते यस्य सन्निधौ ।।7।।

दधिमिश्रान्नकवलं रुक्मपात्रं च दक्षिणे  ।

करे तु चिन्तयेद्वामे पीयूषममलं सुधीः ।।8।।

साधकानां प्रयच्छन्तमन्नपानमनुत्तमं ।
ब्राह्मे मुहूर्ते चोत्थाय ध्यायेद्देवमधोक्षजम् ।।9।।

अतिसुविमलगात्रं रुक्मपात्रस्थमन्नं सुललितदधिभाष्डं पाणिना दक्षिणेन ।

कलशममृतपूरं वामहस्ते दधानं तरति सकलदुखाद्वामनं भावयेद्यः ।।10।।

श्रीरमन्नमन्नदाता लभेदन्नाद एव च ।

पुरस्तादन्नमाप्तोति पुनरावृत्तिवर्जितम् ।

आयुरारोग्यमैश्वर्यं लभते चान्नसम्पदः ।।11।।

इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः ।

अक्लेशादन्नसिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च ।।12।।

अभ्रश्यामः शुभ्रयज्ञोपवीती सत्कौपीनः पीतकृष्णाजिनश्रीः ।

छत्री दण्डी पुण्डरीकायताक्षः पायाद्देवो वानो ब्रह्मचारी ।।13।।

अजिनदण्डकमण्डलुदेवतारुचिरपावनवामनमूर्तये ।

मितजगत्त्रितयाय जितारये निगमवाक्पटवे वटवे नमः ।।14।।

श्रीभूमिसहितं दिव्यं मुक्तामणिविभूषितम् ।

नमामि वामनं विष्णुं भुक्तिमुक्तिफलप्रदम् ।।15।।

वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः ।

वामनस्तारकोभाभ्यां वामनाय नमो नमः ।।16।।

।। इति दधिवामनस्तोत्रम् ।।


Events

Sorry, we currently have no events.
View All Events

Newsletter